In this series of posts, I intend to document my studies of vyākaraṇśāstram. I look at this as part of the learning process, to reinforce these concepts in my mind. Criticism is not to be withheld; I need as much as I can get. Enjoy learning with me!
Some Essential Terms
- “उपदेशः” इति सर्वत्र दृश्यते अष्टाध्याय्याम् । उपदेशः इत्युक्ते आद्योचारणम्; raw material इति वक्तुं शक्नुमः । उदाहरणार्थं्, “पठ्” स्वीकृत्य, शप् तिप् च इति प्रत्ययौ यजयित्वा, “पठति” इति प्राप्नुमः। अतः, अत्र उपदेशः अस्ति “पठ्” (एते धातवः “औपदेशिक-धातवः” इति वदामः”।
- व्यकरणे “पदम्” = प्रकृतिप्रत्ययोः सङ्गमः। सुप्तिङन्तम् पदं ।।१.४.१४।। इति सूत्रम्। अर्थः, सुबन्तं, तिङ्न्तं च पदसंज्ञं भवति। सुप् तिङ् इत्युकते केचन प्रत्ययानां समाहारः (ते के इति अग्रे पश्यामः)। उदाहरणार्थं, “रामस्य” इत्यस्मिन् पदे “राम” इति प्रातिपदिकम् “अस्य” इति एकः सुप्-प्रत्ययः ।”पठन्ति” इति स्वीकुर्मः चेत् “पठ्” इति प्रकृतिः (धातुः), “अन्ति” इति कश्चन तिङ् प्रत्ययः ।
- धातवः द्विधाः – औपदेशिकः अतिदेशिकः च।
- औपदेशिक धातवः -> भूवादयो धातवः ।।१.३.१।। इत्युक्ते ये धातवः उपदेशरूपेण प्राप्ताः, ते औपदेशिकाः (भू, वा आदि धातवः)
- अतिदेशिक धातवः -> सनाद्यन्ता धातवः ।।३.२.३२।। ये धातवः प्रत्ययेभ्यः आगताः (सन्, णिच्, क्यच्, काम्यच् इति प्रत्ययादि)।
- सार्वधातुकम् vs. आर्धधातुकम्
- तिङ्शित्सार्वधातुकम् ।।३.४.११३।। तिङ् प्रत्ययान्, शित् प्रत्ययान् च (यस्य प्रत्यस्य शकारः इत्वर्णः, सः प्रत्ययः शित्) सार्वधुकप्रत्ययान् इति वदामः। अपरम् च, सार्वधातुकप्रत्ययेषु अपित्, पित् इति भेदः वर्तते।
- आर्धातुकम् शेषः ।।३.४.११४।। अन्ये सर्वे प्रत्ययाः अर्धधातुक-प्रत्ययाः। अर्धधातुकप्रत्ययेषु कित्/ङित् अथवा शेषः इति भेदः वर्तते।