Kiratharjuniyam Verse 2

Here is the video along with vyakhyana for Verse 2 of Kiratharjuniyam:

Video:

कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यत: ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्त्तुमिच्छन्ति मृषा हितैषिण: ।।२।।
Word Separation (पदविभाग:)
महीभुजे कृतप्रणामस्य महीं जितां सपत्नेन निवेदयिष्यत: न विव्यथे तस्य मन: न हि प्रियं प्रवक्त्तुम् इच्छन्ति मृषा हितैषिण:
Prose Order (अन्वय:)
महीभुजे कृतप्रणामस्य सपत्नेन महीं जितां इति निवेदयिष्यत: तस्य (वनेचरस्य*) मन: न विव्यथे। हितैषिण: मृषा प्रियं न हि प्रवक्त्तुं इच्छन्ति ।
Word-by-word meaning (प्रतिपदार्थ:)
कृतप्रणामस्य – of the one who has paid his obeisance
महीभुजे  – to the king (Yuddhishtira)
निवेदयिष्यत:  – of the one who is acting as an informant
तस्य (वनेचरस्य*) – his (the forest dweller’s)
मन: – mind
न विव्यथे – did not hesitate (to give the news)
सपत्नेन  – by rivals
महीं- the kingdom
जितां – won over
(वनेचरस्य*) – tribal
हितैषिण: – well wishers
मृषा – false
प्रियं –  favorable
प्रवक्त्तुं इच्छन्ति – want to say
English Gist
After saluting Yuddhishtira, the messenger’s mind did not hesitate to tell him that the Kauravas had taken over the Pandavas’ kingdom and imprisoned the their allies.  Well-wishers will never say what sounds favourable.  They will always say the truth, be it good good or bad.

Grammar
Compounds (समासा:)
१) महीं भुङ्क्ते = महीभुज:  ( a द्वितीया तत्पुरुष: compound )
२) कृत: प्रणाम: येन स: = कृतप्रणाम: ( a समानाधिकरणबहुव्रीहि: compound)
३) सपत्नः
अ. समानः पतिः यस्याः सा = सपत्नी (बहुव्रीहिः)
आ. सपत्नी इव यः सः = सपत्नः
Conjunctions (सन्धि:)
१) मन: + न = मनो न (a विसर्ग conjunction)

Poetic Ornamentation (अलङ्कारः)
अर्थान्तरन्यासालङ्कारः
भवेदर्थान्तरन्यासौsनुषक्तार्थान्तराभिधा।
हनूमानब्धिमतरतद्दुष्करम् किं महात्मनाम्।।
– चन्द्रालोकम्
अस्मिन् अलङ्कारे प्रथमं वाक्यम् सामन्यवाक्यम् भवति।  द्वितीयवाक्यम् तु विशेषं अनुषक्तवाक्यम् भवति।  द्वितीयवाक्यम् प्रथमवाक्येन प्रतिपद्यते अथवा प्रथमवाक्यम् द्वितीयवाक्येन प्रतिपद्यते।


Leave a comment