Video and Vyakhyana for Verse 3
Video:
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृत: ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे।।३।।
English Translation
Having received the permission (to speak) of Yuddhishtira who longed to complete his task of destroying his enemies, The forest dweller (or hunter) spoke words that were meaningful, well-spoken and had a decided meaning – these were the qualities that embellished the hunter’s words
पदविभागः
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृत: स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे
अन्वयं
द्विषां विघाताय विधातुमिच्छतः भूभृतः अनुज्ञाम् अधिगम्य, रहसि सः सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आददे
प्रतिपदार्थः
रहसि – एकान्ते – secretely
द्विषां – शत्रूणाम् – of the enemies
विघाताय – विहन्तुम् – to kill
विधातुम् – व्यापारं कर्तुं – to do his own business
भूभृतः – महाराजस्य – of the king
अधिगम्य – लब्ध्वा- having obtained
अनुज्ञाम् – अनुमतिः – permission
सः – वनेचरः – hunter
सौष्ठवौदार्यविशेषशालिनीं
1) सौष्ठवम् – सुष्ठु भावः – शब्दसामर्थ्यम् -well spoken
2) औदार्यं – उदारस्य भावः – अर्थसंपत्तिः – meaningful
3) विशेषशालिनीं – ते एव विशेषः। तेन शालते – embellished by these qualities
विनिश्चितार्थां – प्रमाणतः निर्णीतार्थाम् – decided meaning with proof
वाचम् – वचनं – words
आददे – उवाच- spoke
समासः (Compounds)
१) भुवं भरति यः, सः भूभृतः (बहुव्रीहिः)
२) सौष्ठवौदार्यविशेषशालिनीं
अ. सौष्ठवम् च औदार्यम् च = सौष्ठवौदार्ये (द्वन्द्वसमासः)
आ. विशेषेण शालते = विशेषशालिनी
इ. सौष्ठवौदार्ये इति विशेषशालिनी = सौष्टवौदार्यविशेषशालिनीं
सन्धिः
१) इच्छतः + रहसि = इच्छतो रहसि (विसर्गसन्धिः)
२) रहसि + अनुज्ञाम् = रहस्यनुज्ञाम् (यण् सन्धिः)
तद्धितान्तः
१) सुष्टु भावः – सौष्टवम् (सम्बन्धार्थक-तद्धितान्तः)
२) उदारस्य भावः – औदार्यम´ (सम्बन्धार्थक-तद्धितान्तः)
