श्रीमद्भगवद्गीतायाः तत्वबोधनम्

मम जीवनस्य अनुभवः न्यूनः – एकादशम कक्षायाम् छात्रोऽस्मि, इति कारणेन।  किन्तु श्रीम्द्भगवद्गीता मम अल्प जीवनैपि मार्गदर्शन रूपेण वर्तते इत्यत्र न संशयः।  जगत्प्रसिद्धा भगवद्गीता प्रधानतया एकं मोक्षशास्त्रं इति परिगण्यते। केचन चिन्तयन्ति स्यू:, “ मोक्षविशये मम एकम् अणुमात्रम् अपि अासक्ति: नास्ति। गीता पठनेन मम क: लाभ:, गीताया: मम किम् प्रयोजनम् ? अहं तु धनं, यश: , विद्यां च सम्पादयितुम् कामये।  MBA वर्गे योजयित्वा अार्थिकजीवने प्रगति: सफलता च प्राप्नोमि। तदेव मम सुखस्य हेतु:, मम जीवनस्य लक्ष्यम्”  इति।

अस्तु, भवतु! ।  व्यावहारिक जीवने वा भवतु, या MBA छात्रजीवने वा भवतु, या कुटुम्ब जीवने वा भवतु, सर्वासां समस्यानां मूलकारणस्य निवारणं अस्मान् गीतां बोधयति, इति दर्शयितुम् अत्र मम लघु प्रयत्न: । भगवद्गीतासु अनेकानि तत्वरत्नानि दैनन्तिन जीवनाचरणे उपयोगाय वर्तते। वस्तुत: भगवद्गीतायाः अहं विशयत्रयम् अधीतवान्  :

१) कर्तु: भावः

२) धर्मस्य मुख्यत्वम्

३) संस्कृतभाषायाः वैिशष्ट्यम्

एतत् विशयत्रयम् अस्माकं जीवने अतीव औपकारिकं। धर्मार्थकाममोक्षाः इति चतुर्विधपुरुषार्थेषु भगवद्गीता सन्मार्गं दर्शयति।  अपि च गीतायाः अर्थावगमने संस्कृभाषायाः वैशिष्ट्यम् मुख्यत्वम् च पश्यामः।

बाल्यकालात् एव मम श्रीमद्भगवद्गीता इति ग्रन्थस्य  परिचयः अभवत्। प्रतिदिनम् अहम् भ्रात्रा सह उपविशन्, गीतायाः पारायणम् करोमि स्म। परन्तु तस्मिन् समये अहम् भगवद्गीतायाः मूल्यम् न ज्ञातवान्, यतः अहम् अतीव लघु बालकः आसम्। “एतत् केवलम् अपरं सामान्यं ग्रन्थम्” इत्यैव मम चिन्तनम् आसीत्। किन्तु गच्छता कालेन एतादृश्याः मनस्थितेः परिवर्तनं जातम्।  अहम् ज्ञातवान् यत् भगवद्गीता केवलम् एकः साधारणः श्लोकसमूहः न इति।  तेषु श्लोकेषु अर्थपूर्णाः अर्थगर्भिता:  सिद्धान्ता: वर्तन्ते इत्यपि अवगमनं मन्दं मन्दं मया प्राप्तम्।

भगवद्गीतापठनं अस्मान्, अस्माकं स्वभावान् च उद्धरति। गीतायाम् विद्यमानम् एकम् रत्नम् उदाहरणार्थं उपस्थापयामि – मनुष्य: यदा अात्मानं  कर्ता इति मत्वा किमपि कार्यं यत्नं वा करोति, तदा स: कार्यस्य फलं कीदृशं भवितव्यं इति मनसि एकं चित्रं निधाय फलस्य अपेक्षां करोति।  कर्मस्यैव अस्माकं नियन्त्रणं न तु कर्मफलस्य,इति गीता बोधयति । अत: फलम् कथं स्यात्, फलस्य स्वरूपं किम्, फलस्य विकारं कर्तुं अशक्ता: वयं । अदृश्य फलस्य प्रभावं वयं अागणनं कर्तुम असमर्था:। अदृश्य फलस्य अंश: क: इति वयं ज्ञातुं न शक्नुम:। अत: श्रीकृष्ण: गीतायां अर्जुनं एवं उपदिशति –

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेदुरभोर्मा ते सङ्गोऽस्त्वकर्मणि ।। २-४७

भगवद्गीता ईश्वरार्पण-बुद्धिः कीदृशी, प्रसादबुद्धिः कीदृशी, कथम एषा बुद्धि: व्यक्तौ वर्धेम इति विवृणति।  यत् क्रियमाणं कार्यम् वर्तते तत् सम्यक् कुरु, फलस्य अपेक्षा अपि भवत्यैव, किन्तु प्रसादबुद्ध्या वयम् कर्मस्य फलम् स्वीकुर्म:, यत् किमपि भवतु। संस्कृते एकं सुभाषितं अहं स्मरामि अत्र –

यथा ह्येकेन चक्रेण रथस्य गतिर्न भवेत् ।

एवं पुरुषकार्येण विना दैवं न सिद््ध्यति ।।

रथस्य गमनार्थं चक्रद्वयम् अवश्यकम्। एवमेव कार्यसाधनार्थम् एकं तु मनुषस्य यत्न: अवश्यक:, अन्य: तु ईश्वरस्य अनुग्रह:, इत्युक्ते अदृष्टफलम्।

 

इश्वरार्पण बुद्धिः इत्युक्ते यत् कार्यम् वयम् कुर्मः, तत् कार्यम् वयम् प्रथमम् इश्वराय समर्पयामः। एतस्य भावस्य अपरं नाम कर्मयोग: । भगवद्गीता इमं विशयं बाहुवारम् स्मारयति, अस्माकं स्वभावान् परिवर्तयति। विद्यालये परीक्षा वा भवतु, निबन्धलेखनस्फर्धा वा भवतु, “सर्वं श्रीकृष्णार्पणम् अस्तु” इति भावः अत्युत्तमम् इति गीता अस्मान् उपदिशति।  प्रसादबुद्धिः एका विपुला मनस्थितिः जीवने। कार्यस्य चिन्तनम् एव मम, न तु फलस्य।  एतावत् चिन्तनम् मनसि स्थापयामि चेत्, मे मनः उद्धरणम् भवति, शोक ग्रस्तः न भविष्यामि च।  यदा वयम् दुखग्रस्ताः भवामः तदा भगवद्गीता अस्मान् उन्नयति।

अपरः विशयः अस्ति, अस्माकम् क्षत्रियधर्मस्य मुख्यत्वम्।  अद्य धर्मस्य रक्षणविशये बुद्धि: नष्टा अभवत्। धर्म: न किन्तु शान्तिरैव प्रधान साधनं इति बहव: जना: चिन्तयन्ति। धर्मस्य अभावात् शान्ति: कुत: इति गीताया: उपदेश: धर्मस्य मुख्यत्वं प्रभाव: च प्रदर्शयति। विमर्श: अवश्यक: । साधारणतया अस्माकं भारतीय सबान्धवाः वदन्ति, “भारतीया: शान्ति-कामिनः”।  किन्तु, एतत् असत्यम्।  अस्माकं संस्कृतेः मूलम अस्ति सत्यं धर्मं च।  प्राचीनकाले भगवद्पाद: आदिशङ्करवत् प्रौढाः वादाविवादेन सत्यं/धर्मं विवृण्वन्ति। अस्मिन् कलियुगे, धर्मस्य रक्षणाय क्षत्रियानाम् अपेक्षा अस्ति।  भगवद्गीता अस्मिन् विशये अस्मान् निश्वसति। श्रीमद्भगवद्गीतायाः आरम्बे दुखपीडितः कौन्तेयः उभयोः सेनयोः मध्ये स्थित्वा युद्धं त्यक्तुम् ऐच्छत्।  अयम् संसार: दुखमयः अतः विवेकेन: मोक्षम् इच्छन्ति न तु युद्धस्य हींसाकार्यम्।  परपीडनं पापस्य कारणम् – एवं शोकग्रस्त: अर्जुन: तस्य दु:खं प्रकटयति।   श्रीकृष्ण: गीतायां अर्जुनं युद्धाय प्रेरयति! अर्जुनं तस्य स्वधर्मविशये स्मारयति च।धर्मः एव प्रधानसाधनम् इति सः निरूपयति। अत: भारते धर्मस्य रक्षणाय क्षत्रियत्वं पुनर्जागरणीयं इति मम अवगमनं गीतात:।

भगवद्गीता पठनार्थं संस्कृतस्य ज्ञानं अत्यन्तम् मुख्यम्।  संस्कृते विद्यमानान् शब्दान् अन्य विदेशीय भाषासु अनुवादं कर्तुं नैव शक्यते ।  उदाहरणार्थं “पुण्यं” इति शब्दः  अस्माकं शास्त्रेषु एकं मुख्यं पदं।  किन्तु यदा वयम् आङ्गिलभाषा इव विदेशीयभाषासु अनुवादं कुर्मः चेत, तदा तस्य शब्दस्य सम्पूर्णार्थं न अवगच्छामः।  पश्चिमे, भारते विद्यमानाया: ज्ञानपरंपराया: अभावात् , तासु भाषासु सम पदानि न लभ्यते। संस्कृतभाषा माध्यमेन भगवद्गीतां पठामः चेत् अन्तरङ्गे कश्चन भावस्य उत्पादनम् भवति। अनया भाषया एव वयम् अस्माकम्  श्रेष्ठ-परंपरायाः मूलतत्वं पठामः अवगच्छामः च। अतः भगवद्गीता संस्कृतस्य वैशिष्ट्यं अस्मान् सूक्ष्मदृष्ट्या दर्शयति।  संस्कृतं प्राचीन-आधुनिक द्वयोः मेलनस्य उपपन्नं निरूपयति।

“गीतायामं केवलं प्राचीन भारते गुरुशिश्य संवादरूपेण चर्चा अस्ति” इति जनाः न चिन्तयेयुः। आधुनिक जनाः अपि गीता द्वारा व्यक्ति विकासं सम्पादयेयु:।  कुटुम्बजीवने, सामाजजीवने वा भवतु, गीता पोषकरूपेण, संस्काररूपेण व्यक्ति अन्तरङ्गे कश्चन स्पन्दनं  जनयिश्यति ।   सामाजिक परिस्थिते: कारणत:, अन्य शास्त्राध्ययनव्यवस्थाया: लोपस्य कारणत: च सर्वे जनाः गीतां पठेयुः, व्यावहारिक, पारमार्थिक च फलानि प्राप्नुयुः, केवलं भारते न किन्तु संपूर्ण विश्वे, आजीवने गीताया: प्रभाव: सर्वत्र भवेत्।


2 thoughts on “श्रीमद्भगवद्गीतायाः तत्वबोधनम्

  1. अति शोभनः भवतः निबन्धः। ह्यः गीता जयन्त्याम् वयम् एतम् पठितवन्तः गीतायाः पाठम् च कृतवन्तः । धन्यवादः ।

    Like

    1. भवतः लेखनम् दृष्ट्वा माहन् सन्तोषः! धन्यवादाः!

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s